Wednesday, July 15, 2015

भाजपायै समाचारमाध्यमविषयकी प्रस्ताविता रणनीतिः

सत्तायाम् आगतवत्या भाजपाया वर्षेण अधिकं जातं किन्तु समाचारमाध्यमानां तां प्रति कटुता तथैव यथा सा  पूर्वं हि आसीत् ।
कटुता मधुरता वा स्याद् इत्येषो विवादस्य विषयो नास्ति । यतो यदि कटुता हितकारि फलं दातुं शक्नोति तर्हि सा कटुता एव वाञ्छनीया । यदि च मधुरता तथा कर्तुं शक्नोति तर्हि सा मधुरता एव वाञ्छनीया ।
बहवो विचारका जनाः कटुतां मधुरतां परिवर्तयितुं चिन्तयन्तः सन्ति । कटुता मधुरतायां परिवर्तिष्यते इत्येतद् तु अनिश्चितमेव । सा च उत्पन्ना भूता मधुरता उचितं फलं दास्यति इत्येतदेव अनिश्चितं हि अस्ति ।
आध्यात्मं कथयति यद् प्राप्तायाः परिस्थितेः सदुपयोगः करणीयो न तु प्राप्तायाः परिस्थितेः परिवर्तनम् ।
इदमीयं सिद्धान्तानुसारं कटुतायाः सदुपयोगः करणीयो न तु तस्याः परिवर्तने शक्तिः व्ययनीया ।
कथं स कटुताया उपयोग इत्येषो मूलः प्रश्नः अस्ति । मूलस्य प्रश्नस्य उत्तरं तदा लप्स्यते यदा वाञ्छितस्य लक्ष्यस्य निर्धारणं करिष्यते । तद् वाञ्छितं लक्ष्यं द्विधा कल्पयितुम् अर्हति । अत्र उभे कल्पने वर्णिते स्त एतद् चापि ज्ञापितं यद् कतरा कल्पना सम्भवा कतरा च असम्भवा ।
प्रथमा कल्पना इत्थम् अस्ति । समाचारमाध्यमेषु तिष्ठतां व्यक्तिनां शत्रुताया मित्रतायां परिवर्तनम् ।
द्वितीया कल्पना इत्थम् अस्ति । समाचारमाध्यमेषु तिष्ठतां व्यक्तिनां शत्रुताया शनैः शनैः तावद् वर्धनं यद् परिणामितया वर्धितया ईर्ष्यया तिष्ठतो व्यक्त्यो दग्धा भवेयुः इति यावत् ।
ऊपर्युक्तयोः उभयोः कल्पनयोः एका एव सम्भवा सा च द्वितीया कल्पना । प्रथमा कल्पना असम्भवा यत एषा चरित्रस्य परिवर्तनम् अपेक्षते । तच्च परिवर्तनम् आध्यात्मिक्या दृष्ट्या बहु दीर्घकालिकम् अतः अव्यवहारिकम् ।
अतो द्वितीया कल्पना एव लक्ष्यरूपेण प्राप्तव्या । यस्य चार्थो यद् समाचारमाध्यमेषु तिष्ठतां व्यक्तिनां शत्रुताया शनैः शनैः तावद् वर्धनं यद् परिणामितया वर्धितया ईर्ष्यया तिष्ठन्तो व्यक्त्यो दग्धा भवेयुः इति यावदिति । इत्थं लक्ष्यं निर्धारितम् इदानीम् । अधुना च मूलं प्रश्नं प्रत्यागम्यताम् ।
इदानीं प्रश्नः अयं भवति यद् कथं समाचारमाध्यमानां कटुतायाः प्रयोगेण तेषाम् ईर्ष्या तावद् वर्धेत यद् ते स्वयमेव दग्धा भवेयुः इति यावत् ।
अस्य उत्तरम् अस्ति तच्च यद् दोषारोपणेन इति । इदञ्च दोषारोपणमस्ति इदञ्च निन्दनाद् भिन्नम् । कथमेतत्? दोषानां व्यक्तौ आरोपणं मण्डनं वा तद् दोषारोपणम् इति । दोषानां व्यक्त्या निष्कासनं हरणं वा तद् निन्दनम् इति । दोषारोपणेन व्यक्तौ दोषानां भारो वर्धते निन्दनेन च क्षीयते ।
भाजपायै समाचारमाध्यमविषयकी प्रस्ताविता रणनीतिः एषा एव यद् समाचारमाध्यमेषु दोषारोपणं करणीयम् इति । समाचारमाध्यमानां निन्दनम् असम्यग् रणनीतिः भविष्यति ।
समाचारमाध्यमानि असत्यं वदन्ति इत्येतद् कथनं दोषारोपणस्य उदाहरणम् । यैः कथनैः दोषः स्पष्टीभूतो भवति तानि कथनानि दोषारोपणं कर्तृणि ।
किमर्थं समाचारमाध्यमानि असत्यं वदन्ति इत्येतद् कथनं निन्दनस्य उदाहरणम् । यैः कथनैः दोषो द्विष्टीभूतो भवति तानि कथनानि निन्दनं कर्तृणि ।
भाजपा समाचारमाध्यमविषये दोषारोपणं नाम रणनीतिम् आचरेत् । स्वीयैः च दत्तैः वक्तव्यैः समाचारमाध्यमानां दोषारोपणमेव भवेद् न तु निन्दनम् ।

No comments:

Post a Comment